2026-05-06 05:45:28 by ambuda-bot
This page has not been fully proofread.
२६८
सूत्रभाष्ये
[पा. ४.
ऽमृतोऽभयो ब्रह्म' इति च आत्मनिं सर्वविक्रियाप्रतिषेधान् ;
अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चिता-
र्थत्वानुपपत्तेश्च ; निरपवादं हि विज्ञानं सर्वाकाङ्गानिवर्तक-
मात्मविषयमिष्यते-- 'वेदान्तविज्ञान सुनिश्चितार्था:' इति
च श्रुते: ; ' तत्र को मोहः कः शोक एकत्वमनुपश्यत: ' इति
च; स्थितप्रज्ञलक्षणस्मृतेश्च । स्थिते च क्षेत्रज्ञपरमात्मैकत्ववि -
षये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं
परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवजातीयक
आत्मभेदविषयोऽयं निर्बन्धो निरर्थकः - एको हायमात्मा
नाममात्रभेदेन बहुधाभिधीयत इति । न हि 'सत्यं ज्ञानम-
नन्तं ब्रह्म । यो ं वेद निहितं गुहायाम्' इति कांचिदेवैकां
गुहामधिकृत्यैतदुक्तम् ; न च ब्रह्मणोऽन्यो गुहायां निहितो-
ऽस्ति, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्रष्टुरेव प्रवेशश्रव-
णात् । ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थ बाधमानाः
श्रेयोद्वारं सम्यग्दर्शनमेव वाधन्ते ; कृतकमनित्यं च मोक्षं
कल्पयन्ति; न्यायेन च न संगच्छन्त इति ॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
'यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वा-
द्ब्रह्मापि जिज्ञास्यमित्युक्तम् ; ब्रह्म च 'जन्माद्यस्य यत: ' इति