Proofing

This page has not been fully proofread.

सू. २१.]
 
प्रथमोऽध्यायः ।
 
२६३
 
. अस्त्यत्र प्रतिज्ञा - 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति'
' इदं सर्वे यदयमात्मा' इति च । तस्याः प्रतिज्ञायाः सिद्धिं सूच-
यत्येतल्लिङ्गम्, यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसंकीर्त-
नम् । यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्, ततः
परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञायत इत्येकविज्ञानेन
सर्वविज्ञानं यत्प्रतिज्ञातम्, तद्धीयेत । तस्मात्प्रतिज्ञासिद्धपर्य
विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचा-
 
मन्यते ॥
 
उत्क्रमिष्यत एवंभावादित्यौ-
डुलोमिः ॥ २१ ॥
 
विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्का-
त्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहा-
दिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रम-
णमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति — ' एष
संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन
रूपेणाभिनिष्पद्यते' इति । कचिच्च जीवाश्रयमपि नामरूपं
नदीनिदर्शनेन ज्ञापयति - 'यथा नद्यः स्यन्दमानाः समुद्रे-
ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम्' इति; यथा लोके नद्यः