Proofing

This page has not been fully proofread.

सू. १८. ]
 
प्रथमोऽध्यायः ।
 
२५९
 
अन्यार्थं
 
तु
 
जैमिनिः प्रश्नव्याख्याना-
 
भ्यामपि चैवमेके ॥ १८ ॥
 
-
 
-
 
अपि च नैवात्र विवदितव्यम् — जीवप्रधानं वेदं वाक्यें
स्यात् ब्रह्मप्रधानं वेति; यतोऽन्यार्थ जीवपरामर्श ब्रह्मप्रति-
पत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते ; कस्मात् ?
प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्रा-
णादिव्यतिरिक्ते जीवे प्रतिवोधिते पुनर्जीवव्यतिरिक्तविषयो
दृश्यते— 'चैष एतद्वालाके पुरुषोऽशयिष्ट क वा एतद-
भूत्कुत एतदागात्' इति ; प्रतिवचनमपि — 'यदा सुप्तः
स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इत्यादि,
' एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो
देवा देवेभ्यो लोका:' इति च सुषुप्तिकाले च परेण ब्रह्मणा
जीव एकतां गच्छति ; परस्माच्च ब्रह्मणः प्राणादिकं जग-
ज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निः-
संबोधस्वस्थतारूपः स्वापः — उपाधिजनितविशेषविज्ञान-
रहितं स्वरूपम्, यतस्तद्भूशरूपमागमनम् सोऽत्र पर -
मात्मा वेदितव्यतया श्रावित इति गम्यते । अपि चैवमेके
शाखिनो वाजसनेयिनोऽस्मिन्नेव वालाक्यजातशत्रुसंवादे
स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मान-