Proofing

This page has not been fully proofread.

२५८
 
सूत्रभाष्ये
 
[पा. ४.
 
सर्ववेदान्तेष्ववधारितः ॥
 
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्या-
 
ख्यातम् ॥ १७ ॥
 
अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच
तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्प-
रिहर्तव्यम् ; अत्रोच्यते--परिहृतं चैतत् 'नोपासात्रैविध्यादा-
श्रितत्वादिह तद्योगात्' इत्यत्र ; त्रिविधं ह्यत्रोपासनमेवं सति
प्रसज्येत — जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ;
न चैतन्न्याय्यम्; उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्व -
मस्य वाक्यस्यावगम्यते ; तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं
दर्शितम् ; उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं
दृश्यते— 'सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठयं
स्वाराज्यमाधिपत्यं पर्येति य एवं वेद' इति । नन्वेवं सति
प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत; न निर्णीयते,
'यस्य वैतत्कर्म' इत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारित-
त्वात्; तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्य -
ते; प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः ' प्राणबन्धनं हि सोम्य
मन:' इत्यत्र ; जीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वाद-
भेदाभिप्रायेण योजयितव्यम् ॥