2026-05-06 05:45:24 by ambuda-bot
This page has not been fully proofread.
सू. १६.]
प्रथमोऽध्यायः ।
२५७
'यस्य वैतत्कर्म' इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्म-
लक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात्,
असंशब्दितत्वाच्च ; नापि पुरुषाणामयं निर्देश:, 'एतेषां पु-
रुषाणां कर्ता' इत्येव तेषां निर्दिष्टत्वात् लिङ्गवचनविगाना-
च; नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं नि-
देश:, कर्तृशब्देनैव तयोरुपात्तत्वात्; पारिशेष्यात्प्रत्यक्षसंनि-
हितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते; क्रियत इति च
तदेव जगत्कर्म ; ननु जगदप्यप्रकृतमसंशब्दितं च ; सत्यमे-
तत्; तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधा-
नेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशि-
ट्रस्य कस्यचित्, विशेषसंनिधानाभावात्; पूर्वत्र च ज-
गदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं ज-
गदेवेोपादीयत इति गम्यते । एतदुक्तं भवति -- य एतेषां
पुरुषाणां जगदेकदेशभूतानां कर्ता — किमनेन विशेषेण :-
यस्य वा कृत्स्नमेव जगदविशेषितं कर्मेति - वा-शब्द एकदेशा-
वच्छिन्नकर्तृत्वव्यावृत्त्यर्थः ; ये वालाकिना ब्रह्मत्वाभिमता:
पुरुषाः कीर्तिताः, तेषामत्रह्मत्वख्यापनाय विशेषोपादानम् ।
एवं ब्राह्मणपरिब्राजकन्यायेन सामान्यविशेषाभ्यां जगतः
कर्ता वेदितव्यतयोपदिश्यते; परमेश्वरश्च सर्वजगतः कर्ता
S. W. I. 17.
•