Proofing

This page has not been fully proofread.

२५६
 
सूत्रभाष्ये
 
[पा. ४.
 
जीवलिङ्गमवगम्यते-- यत्कारणं वेदितव्यतयोपन्यस्तस्य
पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजात-
शत्रुः सुप्तं पुरुषमामन्त्रय आमन्त्रणशब्दाश्रवणात्प्राणादीना-
मभोक्तृत्वं प्रतिबोध्य यष्टिधातोत्थापनात्प्राणादिव्यतिरिक्तं
जीवं भोक्तारं प्रतिबोधयति ; तथा परस्तादपि जीवलिङ्गम-
वगम्यते—- 'तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं
भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान
एतमात्मानं भुञ्जन्ति' इति; प्राणभृत्त्वाच्च जीवस्योपपन्नं
प्राणशब्दत्वम् । तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीय:,
न परमेश्वरः, तलिङ्गानवगमादित्येवं प्राप्ते--
 
ब्रूमः - परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् ; क-
स्मात् ? उपक्रमसामर्थ्यात् । इह हि बालाकिरजातशत्रुणा सह
'ब्रह्म ते ब्रवाणि' इति संवदितुमुपचक्रमे ; स च कतिचिदादि-
त्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं ब-
भूव; तमजातशत्रुः 'मृषा वै खलु मा संवदिष्ठा ब्रह्म ते
ब्रवाणि' इत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदित-
व्यतयोपचिक्षेप; यदि सोऽप्यमुख्यत्रह्मदृष्टिभाक्स्यात्, उप-
क्रमो वाध्येत ; तस्मात्परमेश्वर एवायं भवितुमर्हति । कर्तृत्वं
चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते ।