Proofing

This page has not been fully proofread.

सू. १६. ]
 
प्रथमोऽध्यायः ।
 
२५५
 
लवितरि; यद्वा कर्मण्येवैष लकारोऽर्थाक्षिमं कर्त्रन्तरमपेक्ष्य
द्रष्टव्यः - यथा गम्यते ग्राम इति ॥
 
जगद्बाचित्वात् ॥ १६ ॥
 
कौषीतकिब्राह्मणे वालाक्यजातशत्रुसंवादे श्रूयते—
'यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै
५. बालाक्य- वेदितव्यः' इति । तत्र किं जीवो वेदित-
 
धिकरणम् । व्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत
परमात्मेति विशयः । किं तावत्प्राप्तम् ? प्राण इति । कुत: ?
'यस्य वैतत्कर्म' इति श्रवणात्, परिस्पन्दलक्षणस्य च
कर्मणः प्राणाश्रयत्वात् ; वाक्यशेषे च 'अथास्मिन्प्राण एवैकधा
भवति' इति प्राणशब्दश्रवणात्, प्राणशब्दस्य च मुख्ये प्राण
प्रसिद्धत्वात्; ये चैते पुरस्ताद्वालाकिना 'आदित्ये पुरुषश्च-
न्द्रमसि पुरुष:' इत्येवमादयः पुरुषा निर्दिष्टा:, तेषामपि
भवति प्राण: कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्म-
नाम् - 'कतम एको देव इति प्राण इति स ब्रह्म त्य-
दित्याचक्षते' इति श्रुत्यन्तरप्रसिद्धेः । जीवो वायमिह वेदि -
तव्यतयोपदिश्यते ; तस्यापि धर्माधर्मलक्षणं कर्म शक्यते
श्रावयितुम्— 'यस्य वैतत्कर्म' इति सोऽपि भोक्तृत्वानो -
गोपकरणभूतानामेतेषां पुरुषाणां च कर्तोपपद्यते ; वाक्यशेषे
 
-