Proofing

This page has not been fully proofread.

सू. १५.]
 
प्रथमोऽध्यायः ।
 
२५३
 
इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥
 
यत्पुनः कारणविषयं विगानं दर्शितम् ' असद्वा इदमग्र
आसीत्' इत्यादि, तत्परिहर्तव्यम्; अत्रोच्यते-
 
समाकर्षात् ॥ १५ ॥
 
'असद्वा इदमग्र आसीत्' इति नात्रासन्निरात्मकं कार-
णत्वेन श्राव्यते ; यत: ' असन्नेव स भवति । असद्ब्रह्मेति
वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः '
इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया
प्रत्यगात्मानं निर्धार्य, 'सोऽकामयत' इति तमेव प्रकृतं
समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ' तत्सत्यभि-
त्याचक्षते' इति चोपसंहृत्य, 'तदप्येष श्लोको भवति' इति
तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरति — 'असद्वा इदमंत्र
आसीत्' इति ; यदि त्वसन्निरात्मकमस्मिलोकेऽभिप्रेयेत,
ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत ;
तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध
इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवा-
सीदित्युपचर्यते । एषैव 'असदेवेदमग्र आसीत् ' इत्यत्रापि.
योजना, ' तत्सदासीत्' इति समाकर्षणात्; अत्यन्ताभावा-