2026-05-06 05:45:21 by ambuda-bot
This page has not been fully proofread.
२५२
सूत्रभाष्ये
।
[पा. ४.
विषयं तु विगानं दृश्यते - कचिदाकाशादिका सृष्टिः कचित्तेज-
आदिकेत्येवंजातीयकम् । न च कार्यविषयेण विगानेन कारण-
मपि ब्रह्म सर्ववेदान्तेष्व विगीतमधिगम्यमानमविवक्षितं भवि-
तुमर्हतीति शक्यते वक्तुम्, अतिप्रसङ्गात् । समाधास्यति चा-
चार्य: कार्यविषयमपि विगानम् ' न वियदश्रुतेः' इत्यारभ्य । भ-
वेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । न ह्ययं सृष्टया -
दिप्रपञ्चः प्रतिपिपादयिषितः । न हि तत्प्रतिबद्धः कश्चित्पु-
रुषार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उप-
क्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवा-
क्यताया गम्यमानत्वात् । दर्शयति च सृष्टथादिप्रपञ्चस्य
ब्रह्मप्रतिपत्त्यर्थताम् — 'अन्नेन सोम्य शुङ्गेनापो मूलम-
न्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य
शुङ्गेन सन्मूलमन्विच्छ' इति । मृदादिदृष्टान्तैश्च कार्यस्य
कारणेनाभेदं वदितुं सृष्टयादिप्रपञ्चः श्राव्यत इति गम्यते ।
तथा च संप्रदायविदो वदन्ति — 'मृल्लोहविस्फुलिङ्गाद्यैः
सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः
कथंचन' इति । ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते - ' ब्रह्म-
विदाप्नोति परम् ' ' तरति शोकमात्मवित्' ' तमेव विदित्वाति
मृत्युमेति' इति । प्रत्यक्षावगमं चेदं फलम्, 'तत्त्वमसि'