2026-05-06 05:45:21 by ambuda-bot
This page has not been fully proofread.
सू. १४.]
प्रथमोऽध्यायः ।
२५१
1
ब्रूमः - सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्र-
मादिद्वारके विगाने, न स्रष्टरि किंचिद्विगानमस्ति ; कुत: ?
यथाव्यपदिष्टोक्तेः --- यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः स-
र्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत
एव वेदान्तान्तरेष्वपि व्यपदिश्यते; तद्यथा – 'सत्यं ज्ञान -
मनन्तं ब्रह्म' इति ; अत्र तावज्ज्ञानशब्देन परेण च तद्विष-
येण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्; अपरप्रयो-
ज्यत्वेनेश्वरं कारणमब्रवीत् ; तद्विषयेणैव परेणात्मशब्देन श-
रीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगा-
त्मानं निरधारयत्; 'बहु स्यां प्रजायेय' इति चात्मविषयेण
बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभा-
षत ; तथा 'इदं सर्वमसृजत । यदिदं किं च' इति समस्तज-
गत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे ; तदत्र यल-
क्षणं ब्रह्म कारणत्वेन विज्ञातम्, तल्लक्षणमेवान्यत्रापि विज्ञाय-
ते—' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' ' तदैक्षत
बहु स्यां प्रजायेयेति तत्तेजोऽसृजत' इति; तथा 'आत्मा
वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् । स ईक्षत
लोकान्नु सृजै' इति च — एवंजातीयकस्य कारणस्वरूपनिरू-
पणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् । कार्य-