2026-05-06 05:45:20 by ambuda-bot
This page has not been fully proofread.
२५०
सूत्रभाष्ये
[पा. ४.
गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्; क-
स्मात् ? विगानदर्शनात् ; प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्य-
ते, क्रमादिवैचित्र्यात् । तथा हि — कचित् 'आत्मन आकाशः
संभूतः' इत्याकाशादिका सृष्टिराम्नायते; कचित्तेजआदिका
' तत्तेजोऽसृजत' इति ; कचित्प्राणादिका 'स प्राणमसृजत
प्राणाच्छूद्धाम्' इति ; क्वचिदक्रमेणैव लोकानामुत्पत्तिरा-
म्नायते-- ' स इमाँल्लोकानसृजत । अम्भो मरीचीर्मर-
माप:' इति ; तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते-
असद्वा इदमग्र आसीत्ततो वै सदजायत' इति,
'असदे-
"
वेदमग्र आसीत्तत्सदासीत्तत्समभवत्' इति च; कचिदस-
द्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते— 'तद्वैक
आहुरसदेवेदमग्र आसीत्' इत्युपक्रम्य, 'कुतस्तु खलु सो-
म्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव
सोम्येदमग्र आसीत्' इति ; क्वचित्स्वयंकर्तृकैव व्याक्रिया
जगतो निगद्यते—' तद्वेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्या-
मेव व्याक्रियते ' इति । एवमनेकधा विप्रतिपत्तेर्वस्तुनि च
विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारण-
परता न्याय्या ; स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरप-
रिग्रहो न्याय्य इत्येवं प्राप्ते-