2026-05-06 05:45:20 by ambuda-bot
This page has not been fully proofread.
सू. १४.]
प्रथमोऽध्यायः ।
२४९
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
असत्यपि काण्वानामन्ने ज्योतिषा तेषां पश्चसंख्या पूर्ये-
त; तेऽपि हि 'यस्मिन्पञ्च पञ्चजना:' इत्यतः पूर्वस्मिन्मन्त्रे
ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते ' तद्देवा ज्योतिषां
ज्योति:' इति । कथं पुनरुभयेषामपि तुल्यवदिदं ज्योति: प-
ठ्यमानं समानमन्त्रगतया पश्चसंख्यया केषांचिद्गृह्यते केषां -
चिन्नेति -- अपेक्षाभेदादित्याह — माध्यंदिनानां हि समानम-
न्त्रपठितप्राणादिपश्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योति-
ष्यपेक्षा भवति ; तदलाभात्तु काण्वानां भवत्यपेक्षा; अपेक्षा-
भेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे ; यथा समा-
नेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत् । त-
देवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति ; स्मृति-
न्यायप्रसिद्धी तु परिहरिष्येते ॥
कारणत्वेन चाकाशादिषु यथाव्यप-
दिष्टोक्तेः ॥ १४ ॥
प्रतिपादितं ब्रह्मणो लक्षणम् प्रतिपादितं ब्रह्मवि-
षयं गतिसामान्यं वेदान्तवाक्यानाम् ; प्रतिपादितं च प्रधा-
४. कारणत्वा- नस्याशब्दत्वम् ; तत्रेदमपरमाशङ्कयते—
धिकरणम् । न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा