2026-05-06 05:45:20 by ambuda-bot
This page has not been fully proofread.
२४८
सूत्रभाष्ये
[पा. ४.
प्राणेषु प्रयुक्तः - ' ते वा एते पञ्च ब्रह्मपुरुषा:' इत्यत्र ; 'प्राणो
ह पिता प्राणो ह माता' इत्यादि च ब्राह्मणम् । समासबलाच्च
समुदायस्य रूढत्वमविरुद्धम् ; कथं पुनरसति प्रथमप्रयोगे
रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याह - प्रसिद्धार्थ-
संनिधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारा-
तद्विषयो नियम्यते ; यथा ' उद्भिदा यजेत' ' यूपं छिनत्ति '
'वेदिं करोति' इति, तथा अयमपि पञ्चजनशब्दः समासा-
न्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाही वाक्यशेषसमभि-
व्याहृतेषु प्राणादिषु वर्तिष्यते । कैश्चित्तु देवाः पितरो
गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः ;
अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः ; क्वचिच्च
यत्पाञ्चजन्यया विशा' इति प्रजापरः प्रयोगः पञ्चजन-
शब्दस्य दृश्यते ; तत्परिग्रहेऽपीह न कश्चिद्विरोध: ; आचा-
र्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया
' प्राणादयो वाक्यशेषात्' इति जगाद ॥
८
भवेयुस्तावत्प्राणादयः पञ्चजना माध्यंदिनानाम्, येऽन्नं
प्राणादिष्वामनन्ति ; काण्वानां तु कथं प्राणादयः पञ्चजना
भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति — अत उत्तरं
पठति-