2026-05-06 05:45:18 by ambuda-bot
This page has not been fully proofread.
२४६
सूत्रभाष्ये
[ पा. ४.
इति, उपसर्जनस्य विशेषणेनासंयोगात् ; नन्वापन्नपश्ञ्चसंख्या-
का जना एव पुनः पश्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः
प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूला:
प्रतीयन्ते, तद्वत्; नेति ब्रूमः ; युक्तं यत्पञ्चपूलीशब्दस्य
समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पश्च
पञ्चपूल्य इति विशेषणम् ; इह तु पञ्च जना इत्यादित एव
भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना
इति विशेषणं भवेत् ; भवदपीदं विशेषणं पञ्चसंख्याया एव
भवेत् ; तत्र चोक्तो दोष: ; तस्मात्पञ्च पञ्चजना इति न
पञ्चविंशतितत्त्वाभिप्रायम् । अतिरेकाञ्च न पञ्चविंशति-
तत्त्वाभिप्रायम् ; अतिरेको हि भवत्यात्माकाशाभ्यां पञ्च-
विंशतिसंख्याया: ; आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन
निर्दिष्टः, 'यस्मिन्' इति सप्तमी सूचितस्य ' तमेव मन्य
आत्मानम्' इत्यात्मत्वेनानुकर्षणात्; आत्मा च चेतनः
पुरुष: ; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमा-
धेयत्वं च युज्येत ; अर्थान्तरपरिग्रहे वा तत्त्वसंख्यातिरेकः
सिद्धान्तविरुद्धः प्रसज्येत; तथा 'आकाशश्च प्रतिष्ठित: '
इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्या-
य्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम् । कथं च संख्या-