Proofing

This page has not been fully proofread.

सू. ११.]
 
प्रथमोऽध्यायः ।
 
२४५
 
विकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकच विकारो
न प्रकृतिर्न विकृति: पुरुष:' इति ; तया श्रुतिप्रसिद्धया
पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतेस्तत्त्वा-
नामुपसंग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् ।
 
ततो ब्रूमः - न संख्योपसंग्रहादपि प्रधानादीनां श्रुति-
मत्त्वं प्रत्याशा कर्तव्या; कस्मात् ? नानाभावात् ; नाना
ह्येतानि पञ्चविंशतिस्तत्त्वानि ; नैषां पञ्चशः पश्वशः साधार-
णो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या
निविशेरन् ; न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वा-
दिका: संख्या निविशन्ते । अथोच्येत — पश्चविंशतिसं-
ख्यैवेयमवयवद्वारेण लक्ष्यते, यथा 'पञ्च सप्त च वर्षाणि
न ववर्ष शतक्रतुः' इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति,
तद्वदिति ; तदपि नोपपद्यते; अयमेवास्मिन्पक्षे दोष:, यल्लक्ष-
णाश्रयणीया स्यात् । परश्चात्र पञ्चशब्दो जनशब्देन समस्त:
पञ्चजना इति, भाषिकस्वरेणैकपदत्वनिश्चयात्; प्रयोगा-
न्तरे च ' पञ्चानां त्वा पश्वजनानाम्' इत्यैकपद्यैकस्वर्यैक-
विभक्तिकत्वावगमात्; समस्तत्वाच्च न वीप्सा 'पञ्च पञ्च'
इति । तेन न पञ्चकद्वयग्रहणं पञ्च पश्चेति । न च पञ्चसंख्या-
या एकस्याः पञ्चसंख्यया परया विशेषणम् 'पञ्च पञ्चका: '