Proofing

This page has not been fully proofread.

२४४
 
सूत्रभाष्ये
 
[ पा. ४.
 
पादयिषैवैषा ; प्रसिद्धं तु भेदमनूद्य वन्धमोक्षव्यवस्था
प्रतिपाद्यते ; भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पित: ;
पारमार्थिकः, ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा' इत्यादिश्रुतिभ्यः । मध्वादिवत् — यथा
आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम्, धुलो-
कादीनां चाननीनामनित्वम् — इत्येवंजातीयकं कल्प्यते,
एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मादविरो-
धस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥
 
न संख्योपसंग्रहादपि नानाभावा-
दतिरेकाच्च ॥। ११ ॥
 
एवं परिहृतेऽप्यजामन्त्रे पुनरप्यन्यस्मान्मन्त्रात्सांख्य: प्र-
त्यवतिष्ठते -- ' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
३. संख्योपसंग्र- तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृ-
हाधिकरणम् । तम्' इति । अस्मिन्मन्त्रे पञ्च पञ्चजना
इति पञ्चसंख्याविषया अपरा पश्चसंख्या श्रूयते पञ्चश-
व्दद्वयदर्शनात् ; त एते पञ्च पञ्चकाः पञ्चविंशति: संपद्यन्ते ;
तया च पञ्चविंशतिसंख्यया यावन्त: संख्येया आकाङ्क्षयन्ते
तावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते – 'मूलप्रकृतिर-