Proofing

This page has not been fully proofread.

सू. १०.]
 
प्रथमोऽध्यायः ।
 
२४३
 
मरूपयोः प्रागवस्था अनेनापि मन्त्रेणान्नायत इत्युच्यते ;
तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम् ॥
 
कथं पुनस्तेजोवन्नात्मना त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं
शक्यते, यावता न तावत्तेजोवन्नेष्वजाकृतिरस्ति, न च
तेजोवन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः संभ-
वतीति; अत उत्तरं पठति-
 
कल्पनोपदेशाच्च मध्वादिवद-
विरोधः ॥ १० ॥
 
नाय मजाकृतिनिमित्तोऽजाशब्दः ; नापि यौगिक: ; किं
तर्हि, कल्पनोपदेशोऽयम् - अजारूपकक्लप्तिस्तेजोवन्नलक्षणा-
याश्चराचरयोनेरुपदिश्यते; यथा हि लोके यदृच्छया काचि-
दजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपवर्करा च, तां
च कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां
जह्यात् — एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा
बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा
च क्षेत्रज्ञेनोपभुज्यते, विदुषा च परित्यज्यत इति । न चेद-
माशङ्कितव्यम् — एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यत:
क्षेत्रज्ञभेद: पारमार्थिकः परेषामिष्टः प्राप्नोतीति; न हीयं
क्षेत्रज्ञभेदप्रतिपिपादयिषा ; किंतु बन्धमोक्षव्यवस्थाप्रतिपि-
 
-