2026-05-06 05:45:17 by ambuda-bot
This page has not been fully proofread.
२४२.
सूत्रभाष्ये
ज्योतिरूपक्रमा तु तथा ह्यधीयत
एके ॥ ९ ॥
[ पा. ४.
परमेश्वरादुत्पन्ना ज्योतिः प्रमुखा तेजोवन्नलक्षणा चतुर्वि-
धस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या । तु-शब्दो-
ऽवधारणार्थ:-- भूतत्रयलक्षणैवेयमजा विज्ञेया, न गुणत्रयल-
क्षणा । कस्मात् ? तथा होके शाखिनस्तेजोवन्नानां परमेश्वरा-
दुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति - ' यदने
रोहितं रूपं तेजसस्तद्रूपं यच्छुकं तदपां यत्कृष्णं तदन्नस्य'
इति ; तान्येवेह तेजोवन्नानि प्रत्यभिज्ञायन्ते, रोहितादिश-
व्दसामान्यात्, रोहितादीनां च शब्दानां रूपविशेषेषु मुख्य-
त्वाद्भाक्तत्वाच्च गुणविषयत्वस्य ; असंदिग्धेन च संदिग्धस्य
निगमनं न्याय्यं मन्यन्ते । तथेहापि 'ब्रह्मवादिनो वदन्ति ।
किंकारणं ब्रह्म' इत्युपक्रम्य ' ते ध्यानयोगानुगता अपश्य-
न्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति पारमेश्वर्याः शक्तेः स-
मस्त जगद्विधायिन्या वाक्योपक्रमेऽवगमात् वाक्यशेषेऽपि
'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति ' यो
योनिं योनिमधितिष्ठत्येकः' इति च तस्या एवावगमान्न स्वत-
त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणान्नायत इति शक्यते
वक्तुम् । प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा ना-
"