2026-05-06 05:45:16 by ambuda-bot
This page has not been fully proofread.
सू. ८.]
प्रथमोऽध्यायः ।
२४१
एक: पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते-
तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्य-
विवेकितया संसरति ; अन्य: पुनरज: पुरुष उत्पन्नविवेक-
ज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गी
परित्यजति मुच्यत इत्यर्थः ; तस्माच्छ्रुतिमूलैब प्रधाना-
दिकल्पना कापिलानामित्येवं प्राप्ते--
11
ब्रूमः - नानेन मन्त्रेण श्रुतिमत्त्वं सांख्यवादस्य शक्य-
माश्रयितुम् ; न ह्ययं मन्त्रः स्वातन्त्र्येण कंचिदपि वादं सम-
र्थयितुमुत्सहते, सर्वत्रापि यया कयाचित्कल्पनया अजात्वादि-
संपादनोपपत्तेः, सांख्यवाद एवेहाभिप्रेत इति विशेषावधारण-
कारणाभावात् । चमसवत् - - यथा हि 'अर्वाग्बिलश्चमस ऊ-
र्ध्वबुध्नः' इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभि-
प्रेत इति न शक्यते नियन्तुम्, सर्वत्रापि यथाकथंचिद-
र्वाग्विलत्वादिकल्पनोपपत्तेः, एवमिहाप्यविशेषः 'अजामेकाम्'
इत्यस्य मन्त्रस्य ; नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्य-
ते नियन्तुम् ॥
तत्र तु ' इदं तच्छिर एष सर्वाग्बिलश्चमस ऊर्ध्वबुनः '
इति वाक्यशेषाञ्चमसविशेषप्रतिपत्तिर्भवति ; इह पुनः केय-
मजा प्रतिपत्तव्येत्यत्र ब्रूमः -
S. W. I. 16.