Proofing

This page has not been fully proofread.

२४०
 
सूत्रभाष्ये
 
[पा. ४.
 
यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्त:,
न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, 'बुद्धेरात्मा महा-
न्पर:' 'महान्तं विभुमात्मानम् ' ' वेदाहमेतं पुरुषं महा-
न्तम्' इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः ; तथा-
व्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति ।
अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥
 
चमसवदविशेषात् ॥ ८ ॥
 
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह ; क-
स्मात् ? मन्त्रवर्णात् -- 'अजामेकां लोहितशुक्कुकृष्णां वह्नी:
२. चमसाधि प्रजाः सृजमानां सरूपाः । अजो ह्येको
 
करणम् । जुषमाणोऽनुशेते जहात्येनां भुक्तभोगाम-
जोऽन्य:' इति ; अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रज:-
सत्त्वतमांस्यभिधीयन्ते ; लोहितं रजः, रञ्जनात्मकत्वात्,
शुक्लं सत्त्वम्, प्रकाशात्मकत्वात्; कृष्णं तमः, आवरणात्म-
कत्वात्; तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते —— लोहि-
तशुक्लकृष्णेति ; न जायत इति च अजा स्यात्, 'मूलप्रकृति-
रविकृति:' इत्यभ्युपगमात्; नन्वजाशब्दश्छाग्यां रूढः ;
बाढम् ; सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् ;
सा च बही: प्रजास्त्रैगुण्यान्विता जनयति ; तां प्रकृतिमज