2026-05-06 05:45:16 by ambuda-bot
This page has not been fully proofread.
सू. ७.]
प्रथमोऽध्यायः ।
२३९
मानत्वात्; पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं
पृष्टम्, उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति ; याव-
द्धयविद्या न निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं
च न निवर्तते, तन्निवृत्तौ तु प्राज्ञ एव 'तत्त्वमसि' इति
श्रुत्या प्रत्याय्यते; न चाविद्यावत्त्वे तदपगमे च वस्तुनः
कश्चिद्विशेषोऽस्ति ; यथा कश्चित्संतमसे पतितां कांचिद्रज्जु-
महिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्
' मा भैषीः नायमहिः रज्जुरेवेति, स च तदुपश्रुत्याहिकृतं
भयमुत्सृजेद्वेपथुं पलायनं च, न त्वहिबुद्धिकाले तदपगमकाले
च वस्तुनः कश्चिद्विशेषः स्यात् -- तथैवैतदपि द्रष्टव्यम् ; ततश्च
'न जायते म्रियते वा' इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य
प्रतिवचनम् । सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योज-
यितत्र्यम् - एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां
देहव्यतिरिक्तास्तित्वमात्त्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभा-
वानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्त-
रस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति । ततश्च युक्ता
अग्निजीवपरमात्मकल्पना; प्रधानकल्पनायां तु न वरप्रदानं
न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥
महद्वच्च ॥ ७ ॥