2026-05-06 05:45:15 by ambuda-bot
This page has not been fully proofread.
२३.८.
सूत्रभाष्ये
[पा. ४..
जागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन.
शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति ; प्राज्ञ-
विज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः ; तथाग्रे-
'यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यति' इति जीवप्राज्ञभेददृष्टिमपवदति ;
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ' अन्यं वरं
नचिकेतो वृणीष्व' इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमा-
नोऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनिः-
श्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ' विद्या-
भीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त '
इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच- 'तं दुर्दर्श गूढमनु-
प्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं
• मत्वा धीरो हर्षशोकौ जहाति' इति, तेनापि जीवप्राज्ञयोरभेद
एवेह विवक्षित इति गम्यते ; यत्प्रश्ननिमित्तां च प्रशंसां
महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसा-
नन्तरमन्यमेव प्रश्नमुपक्षिपेत्, अस्थान एव सा सर्वा प्रशंसा
प्रसारिता स्यात् ; तस्मात् 'येयं प्रेते' इत्यस्यैव प्रश्नस्यैतद-
नुकर्षणम् ' अन्यत्र धर्मात् ' इति । यत्तु प्रश्नच्छायावैलक्ष-
ण्यमुक्तम्, तददूषणम्, तदीयस्यैव विशेषस्य पुनः पृच्छय-