Proofing

This page has not been fully proofread.

सू. ६.]
 
प्रथमोऽध्यायः ।
 
२३७
 
तत्र यदि ' अन्यत्र धर्मात्' इत्यन्योऽयमपूर्वः प्रश्न उत्था-
येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं वा-
ध्येत । ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति ; अपूर्वो
हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति
नास्तीति विचिकित्साभिधानात्; जीवश्च धर्मादिगोचर-
त्वात् न 'अन्यत्र धर्मात्' इति प्रश्नमर्हति ; प्राज्ञस्तु धर्मा-
द्यतीतत्वात् 'अन्यत्र धर्मात्' इति प्रश्नमर्हति ; प्रश्नच्छाया
च न समाना लक्ष्यते, पूर्वस्यास्तित्वनास्तित्वविषयत्वात्,
उत्तरस्य धर्माद्यतीतवस्तुविषयत्वाच्च; तस्मात्प्रत्यभिज्ञानाभा-
वात्प्रभेदः ; न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्, न;
जीवप्राज्ञयोरेकत्वाभ्युपगमात्; भवेत्प्रष्टव्यभेदात्प्रश्नभेदो य-
द्यन्यो जीवः प्राज्ञात्स्यात् ; न त्वन्यत्वमस्ति, 'तत्त्वमसि'
इत्यादिश्रुत्यन्तरेभ्य: ; इह च ' अन्यत्र धर्मात्' इत्यस्य प्रश्नस्य
प्रतिवचनम् ' न जायते म्रियते वा विपश्चित्' इति जन्म-
मरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्श-
 
यति ;
सति हि प्रसङ्गे प्रतिषेधो भागी भवति; प्रसङ्गश्च जन्म-
मरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, न परमेश्वरस्य ;
तथा -- 'स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति' इति स्वप्न-