2026-05-06 05:45:15 by ambuda-bot
This page has not been fully proofread.
२३६
सूत्रभाष्ये
[ पा. ४.
म् । नैवं प्रधानविषयः प्रभोऽस्ति । अपृष्टत्वाञ्चानुपन्यसनी-
यत्वं तस्येति ॥
-
"
-
अत्राह — योऽयमात्मविषयः प्रश्नः – 'येयं प्रेते विचि-
कित्सा मनुष्येऽस्ति' इति, किं स एवायम् ' अन्यत्र धर्मा-
दन्यत्राधर्मात्' इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयम-
पूर्व : प्रश्न उत्थाप्यत इति । किं चात: ? स एवायं प्रश्नः
पुनरनुकृष्यत इति यद्युच्येत तदा द्वयोरात्मविषययोः प्रश्नयो-
रेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न व-
क्तत्र्यं त्रयाणां प्रश्नोपन्यासाविति ; अथान्योऽयमपूर्वः प्रश्न उ
त्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नक-
ल्पनायामदोषः ; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्प-
नायामदोषः स्यादिति ॥
अत्रोच्यते-- नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं
कंचित्कल्पयामः, वाक्योपक्रमसामर्थ्यात् ; वरप्रदानोपक्रमा
हि मृत्युनचिकेत: संवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठव-
ल्लीनां लक्ष्यते ; मृत्युः किल नचिकेतसे पित्रा प्रहिताय
बीन्वरान्प्रददौ ; नचिकेताः किल तेषां प्रथमेन वरेण पितुः
सौमनस्यं वत्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् —
'येयं प्रेते' इति ' वराणामेष वरस्तृतीयः' इति लिङ्गात् ।
•