2026-05-06 05:45:14 by ambuda-bot
This page has not been fully proofread.
सू. ६.]
प्रथमोऽध्यायः ।
२३५
धर्मत्वमभिलप्यते ; तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्द-
निर्दिष्टत्वं वा ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; य-
स्मान्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्प्रन्थे क-
ठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते ; तद्वि-
षय एव च प्रश्न: ; नातोऽन्यस्य प्रश्न उपन्यासो वास्ति ; तत्र
त;
तावत् 'स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय
मह्यम्' इत्यग्निविषयः प्रश्नः ; ' येयं प्रेते विचिकित्सा मनु-
ष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं
वराणामेष वरस्तृतीयः' इति जीवविषयः प्रश्न: ; 'अन्यत्र ध-
मदन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च
यत्तत्पश्यसि तद्वद्' इति परमात्मविषय: ; प्रतिवचनमपि --
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा'
इत्यग्निविषयम् ; ' हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनात-
नम् । यथा च मरणं प्राप्य आत्मा भवति गौतम । योनि-
मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति
यथाकर्म यथाश्रुतम्' इति व्यवहितं जीवविषयम्; 'न जा-
यते म्रियते वा विपश्चित्' इत्यादिबहुप्रपञ्चं परमात्मविषय-
'