2026-05-06 05:45:14 by ambuda-bot
This page has not been fully proofread.
२३४
सूत्रभाष्ये
[पा. ४.
"
विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५॥
-
-
अत्राह सांख्य: — ज्ञेयत्वावचनात् इत्यसिद्धम् ; कथम् ?
श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्-
— अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते '
इति; अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ
निरूपितम्, तादृशमेव निचाय्यत्वेन निर्दिष्टम् ; तस्मात्प्रधान-
मेवेदम्; तदेव चाव्यक्तशब्द निर्दिष्टमिति । अत्र ब्रूमः — नेह
प्रधानं निचाय्यत्वेन निर्दिष्टम् ; प्राज्ञो हीह परमात्मा निचा-
य्यत्वेन निर्दिष्ट इति गम्यते ; कुत: ? प्रकरणात्; प्राज्ञस्य
हि प्रकरणं विततं वर्तते - 'पुरुषान्न परं किंचित्सा काष्ठा
सा परा गतिः' इत्यादिनिर्देशात्, 'एष सर्वेषु भूतेषु गुढो -
ऽत्मा न प्रकाशते' इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वा-
काङ्क्षणात्, 'यच्छेद्वाङ्मनसी प्राज्ञः' इति च तज्ज्ञानायैव
वागादिसंयमस्य विहितत्वात्, मृत्युमुखप्रमोक्षणफलत्वाच्च ;
न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सां-
ख्यैरिष्यते ; चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति ते
षामभ्युपगमः; सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादि-