Proofing

This page has not been fully proofread.

सू. ४.]
 
प्रथमोऽध्यायः ।
 
२३३
 
रस्ति ; तत्राविशिष्टायां शरीरद्वयस्य प्राह्यत्वाकाङ्क्षायां यथा-
काङ्क्ष संबन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति,
कुत आम्नातस्यार्थस्य प्रतिपत्ति: ? न चैवं मन्तव्यम् — दुःशो-
धत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम्, स्थूलस्य तु दृष्टवीभत्स-
तया सुशोधत्वादग्रहणमिति ; यतो नैवेह शोधनं कस्यचि-
द्विवक्ष्यते ; न ह्यत्र शोधनविधायि किंचिदाख्यातमस्ति
अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह
विवक्ष्यते ; तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा, 'पुरु-
षान्न परं किंचित्' इत्याह ; सर्वथापि त्वानुमानिकनिराकर-
णोपपत्तेः, तथा नामास्तु; न नः किंचिच्छिद्यते ॥
 
ज्ञेयत्वावचनाच्च ॥ ४॥
 
;
 
ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञाना-
कैवल्यमिति वदद्भिः -- न हि गुणस्वरूपमज्ञात्वा गुणे-
भ्य: पुरुषस्यान्तरं शक्यं ज्ञातुमिति ; कचिच्च विभूतिविशेष-
प्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति; न चेदमिहाव्यक्तं ज्ञेयत्वे-
नोच्यते ; पदमात्रं ह्मव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासि-
तव्यं चेति वाक्यमस्ति ; न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थ-
मिति शक्यं प्रतिपत्तुम्; तस्मादपि नाव्यक्तशब्देन प्रधान-
मभिधीयते ; अस्माकं तु रथरूपकक्लप्तशरीराद्यनुसरणेन