Proofing

This page has not been fully proofread.

२३२
 
सूत्रभाष्ये
 
[पा. ४.
 
शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोप-
चारादव्यक्तशब्देन ग्रहणम्, इन्द्रियादीनां स्वशब्दैरेव गृही-
तत्वात्, परिशिष्टत्वाच्च शरीरस्य ॥
 
अन्ये तु वर्णयन्ति — द्विविधं हि शरीरं स्थूलं सूक्ष्मं
च; स्थूलम्, यदिदमुपलभ्यते; सूक्ष्मम्, यदुत्तरत्र वक्ष्यते-
' तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् '
इति ; तज्ञ्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्ति-
तम् ; इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्त-
शब्दार्हत्वात् तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवा -
त्तस्य परत्वम् ; यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः
परत्वमर्थानामिति । तैस्त्वेतद्वक्तव्यम् — अविशेषेण शरीर-
द्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात् समानयोः प्रकृतत्व-
परिशिष्टत्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुन:
स्थूलमपीति । आम्नातस्यार्थ प्रतिपत्तुं प्रभवामः, नाम्नातं
पर्यनुयोक्तुम्, आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं
शक्नोति, नेतरत्, व्यक्तत्वात्तस्येति चेत्, न; एकवाक्य-
ताधीनत्वादर्थप्रतिपत्तेः ; न हीमे पूर्वोत्तरे आम्नाते एकवा-
क्यतामनापद्य कंचिदर्थं प्रतिपादयतः; प्रकृतहानाप्रकृत-
प्रक्रियाप्रसङ्गात् ; न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्ति-
 
"