2026-05-06 05:45:14 by ambuda-bot
This page has not been fully proofread.
सू. ३.]
प्रथमोऽध्यायः ।
२३१
तदा प्रधानकारणवादम् ; परमेश्वराधीना त्वियमस्माभिः प्रा-
गवस्था जगतोऽभ्युपगम्यते, न स्वतन्त्रा; सा चावश्या-
भ्युपगन्तव्या ; अर्थवती हि सा ; न हि तया विना परमे-
श्वरस्य स्रष्टृत्वं सिध्यति, शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः ;
मुक्तानां च पुनरनुत्पत्तिः ; कुत: ? विद्यया तस्या बीज-
शक्तेर्दाहात्; अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनि-
श्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्र-
तिबोधरहिताः शेरते संसारिणो जीवाः; तदेतदव्यक्तं
क्वचिदाकाशशव्द निर्दिष्टम्— ' एतस्मिन्नु खल्वक्षरे गार्ग्या-
काश ओतश्च प्रोतश्च' इति श्रुतेः; कचिदक्षरशब्दोदितम् —
अक्षरात्परतः परः' इति श्रुतेः; क्वचिन्मायेति सूचितम्
"
-
'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति
मन्त्रवर्णात् ; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपण-
स्याशक्यत्वात् ; तदिदं महतः परमव्यक्तमित्युक्तम् — अव्य-
क्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्; यदा तु
जीवो महान् ; तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य -- महतः
परमव्यक्तमित्युक्तम् ; अविद्या हाव्यक्तम् ; अविद्यावत्त्वेनैव
जीवस्य सर्वः संव्यवहारः संततो वर्तते ; तच्च अव्यक्तगतं
महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते; सत्यपि