2026-05-06 05:45:12 by ambuda-bot
This page has not been fully proofread.
२३०
सूत्रभाष्ये
[पा. ४.
न
उक्तमेतत्—प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम्,
प्रधानमिति ; इदमिदानीमाशङ्कयते — कथमव्यक्तशब्दार्हत्वं
शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दा-
र्हम्, अस्पष्टवचनस्त्वव्यक्तशब्द इति ; अत उत्तरमुच्यते-
सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्यान्य-
क्तशब्दार्हत्वात् ; यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तश-
ब्दुमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्द-
मर्हति ; प्रकृतिशब्दश्व विकारे दृष्टः — यथा 'गोभिः श्री-
णीत मत्सरम्' इति ; श्रुतिश्च - ' तद्धेदं तर्ह्यव्याकृतमा-
सीत् ' इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां
परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं द-
र्शयति ॥
तदधीनत्वादर्थवत् ॥ ३॥
अताह- यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं
प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीर-
स्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारण-
बाद एवं सत्यापद्येत ; अस्यैव जगतः प्रागवस्थायाः प्रधान-
त्वेनाभ्युपगमादिति । अत्रोच्यते — यदि वयं स्वतन्त्रां कांचि -
त्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम