2026-05-06 05:45:12 by ambuda-bot
This page has not been fully proofread.
सू. २.]
प्रथमोऽध्यायः ।
२२९
विषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परि-
शिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते । शरीरेन्द्रियम-
नोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावंतो भोक्तुः शरीरादीनां
रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्म-
ब्रह्मावगतिरिह विवक्षिता; तथा च ' एष सर्वेषु भूतेषु गू-
ढोऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सू-
क्ष्मदर्शिभि:' इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा
तदवगमार्थं योगं दर्शयति — 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्य-
च्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छे-
च्छान्त आत्मनि' इति ; एतदुक्तं भवति — वाचं मनसि
संयच्छेत् वागादिवाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणाव-
तिष्ठेत ; मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन
ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् ; ता-
मपि बुद्धि महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्म-
तापादनेन नियच्छेत्; महान्तं त्वात्मानं शान्त आत्मनि प्र-
करणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च ।
तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानं-
स्यावकाशः ॥
सूक्ष्मं तु तदर्हत्वात् ॥ २॥