2026-05-06 05:45:11 by ambuda-bot
This page has not been fully proofread.
२२८
सूत्रभाष्ये
[पा. ४.
--
इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव; अर्था-
स्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टा:, तेषां
चेन्द्रियेभ्यः परत्वम्, इन्द्रियाणां च ग्रहत्वं विषयाणामति-
ग्रहत्वम् इति श्रुतिप्रसिद्धेः ; विषयेभ्यश्च मनसः परत्वम्,
मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य ; मनसस्तु परा बुद्धि:-
बुद्धिं ह्यारुह्य भोग्यजातं भोक्त्तारमुपसर्पति ; बुद्धेरात्मा महा-
न्परः— यः, स: 'आत्मानं रथिनं विद्धि' इति रथित्वेनो-
पक्षिप्तः । कुतः ? आत्मशब्दात्, भोक्तुश्च भोगोपकरणात्परत्वो-
पपत्ते: ; महत्त्वं चास्य स्वामित्वादुपपन्नम् ; अथवा - 'मनो
महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविञ्चितिश्चैव
स्मृतिश्च परिपठ्यते' इति स्मृते:, 'यो ब्रह्माणं विद-
धाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति च श्रुते: । या
प्रथमजस्य हिरण्यगर्भस्य बुद्धि:, सा सर्वासां बुद्धीनां परमा
प्रतिष्ठा; सेह महानात्मेत्युच्यते ; सा च पूर्वत्र बुद्धिग्रहणेनैव
गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बु-
द्विभ्यः परत्वोपपत्तेः; एतस्मिंस्तु पक्षे परमात्मविषयेणैव परे-
ण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतस्तु
परमात्मविज्ञानात्मनोर्भेदाभावात् ; तदेवं शरीरमेवैकं परि-
शिष्यते ; तेष्वितराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्श -