Proofing

This page has not been fully proofread.

सू: १.]
 
प्रथमोऽध्यायः ।
 
२.२७
 
वति, असति तद्रूपप्रत्यभिज्ञाने; न हाश्वस्थाने गां पश्यन्न-
श्वोऽयमित्यमूढोऽध्यवस्यति । प्रकरणनिरूपणायां चात्र न.
परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेः ;
शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते;
कुत: ? प्रकरणात् परिशेषाच्च । तथा ह्यनन्तरातीतो ग्रन्थ
आत्मशरीरादीनां रथिरथादिरूपकक्लृप्तिं दर्शयति- 'आ-
त्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं
विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु
गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति ;
तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः
पारं तद्विष्णोः परमं पदमाप्नोति -- इति दर्शयित्वा किं त-
दध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम्, तेभ्य
एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः
पारं तद्विष्णोः परमं पदं दर्शयति – 'इन्द्रियेभ्यः परा हाथ
अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महा-
न्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न
परं किंचित्सा काष्ठा सा परा गतिः' इति ; तत्र य एवे-
न्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः,
त एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहाराय । तत्र