2026-05-06 05:45:11 by ambuda-bot
This page has not been fully proofread.
२२६
सूत्रभाष्ये
[पा. ४.
आनुमानिकमप्येकेषामिति चेन्न शरी-
ररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
,
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम्, एकेषां
शाखिनां शब्दवदुपलभ्यते ; काठके हि पठ्यते— 'महतः
परमव्यक्तमव्यक्तात्पुरुषः परः' इति ; तत्र य एव यन्नामानो
१. आनुमानिका- यत्क्रमाश्च महदुव्यक्तपुरुषाः स्मृतिप्रसिद्धाः,
धिकरणम् । त एवेह प्रत्यभिज्ञायन्ते ; तत्राव्यक्तमिति
स्मृतिप्रसिद्धेः शब्दादिहीनत्वाश्च न व्यक्तमव्यक्तमिति व्युत्प-
त्तिसंभवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते ; अतस्तस्य
शब्दवत्त्वादशब्दत्वमनुपपन्नम् ; तदेव च जगतः कारणं
श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत्, नैतदेवम् — न ह्येत-
त्काठकवाक्यं स्मृतिप्रसिद्धयोर्महद व्यक्तयोरस्तित्वपरम् । न
ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम्,
तादृशं प्रत्यभिज्ञायते ; शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्य-
भिज्ञायते ; स च शब्द:- न व्यक्तमव्यक्तमिति--
यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते ; न
चायं कस्मिंश्चिद्रूढः ; या तु प्रधानवादिनां रूढि, सा
तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं
प्रतिपद्यते ; न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भ-
-