2026-05-06 05:45:11 by ambuda-bot
This page has not been fully proofread.
ॐ
चतुर्थः पादः ॥
ह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमु-
क्तम्- ' जन्माद्यस्य यत:' इति । तल्लक्षणं
प्रधानस्यापि समानमित्याशङ्कथ तदशब्दत्वेन
निराकृतम् — 'ईक्षतेर्नाशब्दम् ' इति ।
गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते,
न प्रधानकारणवादं प्रतीति प्रपश्वितं गतेन ग्रन्थेन । इदं
त्विदानीमवशिष्टमाशङ्कयते — यदुक्तं प्रधानस्याशब्दत्वम्, त-
दसिद्धम्, कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां
श्रूयमाणत्वात्; अत: प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः
परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ;
तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं
ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ; अतस्ते-
षामन्यपरत्वं दर्शयितुं पर: संदर्भ ः प्रवर्तते ॥
S. W. I. 13