Proofing

This page has not been fully proofread.

सू. ४३.]
 
प्रथमोऽध्यायः ।
 
पादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति-
 
-
 
'
 
२२१
 
सर्वस्य
 
वशी सर्वस्येशानः सर्वस्याधिपति:' इत्येवंजातीयका असं-
सारिस्वभावप्रतिपादनपरा:; 'स न साधुना कर्मणा भूयान्नो
एवासाधुना कनीयान्' इत्येवंजातीयकाः संसारिस्वभावप्र-
तिषेधनाः । तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द -
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतो
 
शारीरकमीमांसासूत्रभाष्ये
 
प्रथमाध्यायस्य तृतीयः पादः ॥