2026-05-06 05:45:09 by ambuda-bot
This page has not been fully proofread.
२२०
सूत्रभाष्ये
-
[पा. ३.
किं तर्हि, अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां
विवक्षति ; यतः ' ध्यायतीव लेलायतीव' इत्येवमाद्युत्तर-
ग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते ; तथोपसंहारे-
ऽपि यथोपक्रममेवोपसंहरति — ' स वा एष महानज आत्मा
योऽयं विज्ञानमयः प्राणेषु' इति ; योऽयं विज्ञानमयः प्राणे-
षु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर
एवास्माभिः प्रतिपादित इत्यर्थः ; यस्तु मध्ये बुद्धान्ताद्यव-
स्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि दि -
शं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत; यतो न बुद्धा-
न्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति, किं
तर्हि, अवस्थारहितत्वमसंसारित्वं च ; कथमेतदवगम्यते ?
यत् 'अत ऊर्ध्वं विमोक्षायैव ब्रूहि' इति पदे पदे पृच्छति ;
यच्च 'अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष:' इति पदे पदे
प्रतिवक्ति; 'अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि
तदा सर्वाञ्शोकान्हृदयस्थ भवति' इति च । तस्मादसंसा-
रिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपर मेवैतद्वाक्यमित्यवगन्तव्य -
म्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रति-