Proofing

This page has not been fully proofread.

प्रथमोऽध्यायः ।
 
२१९
 
सू. ४२.]
विज्ञानमय: प्राणेषु' इति शारीरलिङ्गात्; उपसंहारे च
'स वा एष महानंज आत्मा योऽयं विज्ञानमयः प्राणेषु
इति तदपरित्यागात्; मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन:
तस्यैव प्रपञ्चनादित्येवं प्राप्ते--
 
9.
 
ब्रूमः -- परमेश्वरोपदेशपरमेवेदं वाक्यम्, न शारीरमा-
त्रान्वाख्यानपरम् ; कस्मात् ? सुषुप्तावुत्क्रान्तौ च शारीरा-
द्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ' अयं पुरुष:
प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्'
इति शारीराद्भेदेन परमेश्वरं व्यपदिशति ; तत्र पुरुषः शारीरः
स्यात्, तस्य वेदितृत्वात्; बाह्याभ्यन्तरवेदनप्रसङ्गे सति
तत्प्रतिषेधसंभवात्; प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया
प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि 'अयं शारीर
आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति' इति जीवा-
देन परमेश्वरं व्यपदिशति ; तत्रापि शारीरो जीवः स्यात्,
शरीरस्वामित्वात् ; प्राज्ञस्तु स एव परमेश्वरः । तस्मात्सुषु-
प्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति
गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य
वाक्यस्येति, अत्र ब्रूमः — उपक्रमे तावत् ' योऽयं वि-
 

 
ज्ञानमयः प्राणेषु' इति न संसारिस्वरूपं विवक्षितम् ;