Proofing

This page has not been fully proofread.

२१८
 
सूत्रभाष्ये
 
[पा. ३.
 
,
 
कस्मात् ? अर्थान्तरत्वादिव्यपदेशात् । ' ते यदन्तरा तद्ब्रहा '
इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ; न
च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं संभवति, सर्वस्य वि-
कारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्; नामरूपयोरपि
निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र संभवति, 'अनेन जीवे-
नात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इति ब्रह्मकर्तृक-
त्वश्रवणात् । ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वो-
दृत्वमस्ति ; बाढ़मस्ति; अभेदस्त्विह विवक्षितः । नामरूप-
निर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति ।
' तद्ब्रह्म तदमृतं स आत्मा' इति च ब्रह्मवादस्य लिङ्गानि ।
'आकाशस्तल्लिङ्गात्' इत्यस्यैवायं प्रपञ्चः ॥
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
 
व्यपदेशादित्यनुवर्तते । बृहदारण्यके षष्ठे प्रपाठके 'क-
तम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्र्ज्योतिः
१३. सुषुप्त्यधि- पुरुषः' इत्युपक्रम्य भूयानात्मविषय: प्र-
करणम् । पञ्चः कृतः । तत्किं संसारिस्वरूपमात्रा-
न्वाख्यानपरं वाक्यम्, उतासंसारिस्वरूपप्रतिपादनपरमिति
विशयः । किं तावत्प्राप्तम् ? संसारिस्वरूपमात्रविषय-
 
मेवेति ;. कुत: ? उपक्रमोपसंहाराभ्याम्, उपक्रमे ' योऽयं