Proofing

This page has not been fully proofread.

सू. ४१.]
 
प्रथमोऽध्यायः ।
 
२१७
 
नात् । तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते ; 'य
आत्मापहतपाप्मा' इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकर-
णादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात्; 'एतं
• त्वेव ते भूयोऽनुव्याख्यास्यामि' इति चानुसंधानात् ; 'अश-
रीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति चाशरीरतायै
ज्योतिःसंपत्तेरस्याभिधानात् ; ब्रह्मभावाञ्चान्यत्राशरीरतानुप-
पत्तेः ; 'परं ज्योति: ' ' स उत्तम: पुरुष:' इति च विशेष-
णात् । यत्तक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्य-
न्तिको मोक्षः, गत्युत्क्रान्तिसंबन्धात् । न ह्यात्यन्तिके मोक्षे
गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥
 
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
 
'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा त-
द्ब्रह्म तदमृतं स आत्मा' इति श्रूयते । तत्किमाकाशशब्द
१२. अर्थान्तरत्वा- परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमि-
दिव्यपदेशा- ति विचारे — भूतपरिग्रहो युक्त: ; आका-
धिकरणम् । शशब्दस्य तस्मिन् रूढत्वात्; नामरूप-
निर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात् ;
स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते —
 
इदमुच्यते — परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति ;