2026-05-06 05:45:07 by ambuda-bot
This page has not been fully proofread.
२.१६
.
सूत्रभाष्ये
[पा. ३.
कम्; तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय ' अतो-
ऽन्यदार्तम्' इति वाय्वादेरार्तत्वाभिधानात् । प्रकरणाद-
प्यत्र परमात्मनिश्चय: ; 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा-
स्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि
तद्वद्' इति परमात्मनः पृष्टत्वात् ॥
ज्योतिर्दर्शनात् ॥ ४० ॥
'एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसं-
पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति श्रूयते । तत्र संशय्यते-
११. ज्योतिर- किं ज्योतिः शब्दं चक्षुर्विषयतमोपहं तेजः,
धिकरणम् । किं वा परं ब्रह्मेति । किं तावत्प्राप्तम् ?
प्रसिद्धमेव तेजो ज्योतिःशब्दमिति । कुत: ? तत्र ज्योति:-
शब्दस्य रूढत्वात् । 'ज्योतिश्चरणाभिधानात्' इत्यत्र हि
प्रकरणाज्ज्योतिः शब्दः स्वार्थ परित्यज्य ब्रह्मणि वर्तते; न
चेह तद्वत्किचित्स्वार्थपरित्यागे कारणं दृश्यते । तथा च
नाडीखण्डे – 'अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव
रश्मिभिरूर्ध्वमाक्रमते ' इति मुमुक्षोरादित्यप्राप्तिरभिहिता ।
तस्मात्प्रसिद्धमेव तेजो ज्योतिः शब्दमिति, एवं प्राप्ते -
ब्रूमः - परमेव ब्रह्म ज्योति: शब्दम् ; कस्मात् ? दर्श-