2026-05-06 05:45:06 by ambuda-bot
This page has not been fully proofread.
सू. ३९.]
प्रथमोऽध्यायः ।
२१५
दर्शनात् । एजयितृत्वमपीदं परमात्मन एवोपपद्यते, न
वायुमात्रस्य ; तथा चोक्तम्— 'न प्राणेन नापानेन मर्त्यो
जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ'
इति ; उत्तरत्रापि 'भयादस्याभिस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' इति ब्रह्मैव
निर्देक्ष्यते, न वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधा-
नात् : तदेव इहापि संनिधानात् ' महद्भयं वज्रमुद्यतम् '
इंति च भयहेतुत्वं प्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते ; वज्र-
शब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः ; यथा हि 'वज्र-
मुद्यतं ममैव शिरसि निपतेत्, यद्यहमस्य शासनं न
कुर्याम्' इत्यनेन भयेन जनो नियमेन राजादिशासने प्रव-
र्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो
बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इति — भयानकं व-
ज्रोपमितं ब्रह्म । तथा च ब्रह्मविषयं श्रुत्यन्तरम् -- 'भीषा-
स्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चमः' इति । अमृतत्वफलश्रवणादपि ब्रह्मै-
वेदमिति गम्यते ; ब्रह्मज्ञानाद्धषमृतत्वप्राप्तिः, 'तमेव विदि-
त्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनायं' इति मन्त्रव-
र्णात् । यत्तु वायुविज्ञानात्कचिदसृतत्वमभिहितम्, तदापेक्षि-
।