Proofing

This page has not been fully proofread.

२१४
 
सूत्रभाष्येः
 
[पा. ३.
 
त्वप्राप्तिरिति श्रूयते । तत्र, कोऽसौ प्राणः, किं तद्भयानकं
वज्रम्, इत्यप्रतिपत्तेर्विचारे क्रियमाणे, प्राप्तं तावत्-प्र-
सिद्धेः पञ्चवृत्तिर्वायुः प्राण इति ; प्रसिद्धेरेव चाशनिर्वज्रं
स्यात्; वायोश्चेदं माहात्म्यं संकीर्त्यते ; कथम् ? सर्व-
मिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजति ;
वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते; वायौ हि
पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्टयशनयो विव-
र्तन्त इत्याचक्षते; वायुविज्ञानादेव चेदममृतत्वम् ; तथा हि
श्रुत्यन्तरम् — 'वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं
जयति य एवं वेद' इति ; तस्माद्वायुरयमिह प्रतिपत्तव्यः
इत्येवं प्राप्ते-
 
ब्रूमः — ब्रह्मैवेदमिह प्रतिपत्तव्यम् ; कुत: ? पूर्वोत्तरालो-
चनात् ; पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपल-
भामहे; इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्ये-
महि ? पूर्वत्र तावत् 'तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँ-
लोकाः श्रिताः सर्वे तदु नात्येति कश्चन' इति ब्रह्म निर्दिष्टम् ;
तदेव इहापि संनिधानात्, 'जगत्सर्वं प्राण एजति' इति
च लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यते ; प्राणश-
ब्दोऽप्ययं परमात्मन्येव प्रयुक्तः - 'प्राणस्य प्राणम्' इति