Proofing

This page has not been fully proofread.

सूः ३९.]
 
प्रथमोऽध्यायः ।
 
२१३.
 
तिपूरणम्' इति ; ' पद्यु ह वा एतच्छमशानं यच्छूद्रस्तस्मा-
च्छूद्रसमीपे नाध्येतव्यम्' इति च । अत एवाध्ययनप्रतिषे-
धः ; यस्य हि समीपेऽपि नाध्येतव्यं भवति, स कथमश्रुत-
मधीयीत । भवति च वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीर-
भेद इति । अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भ-
वति - 'न शूद्राय मतिं दद्यात्' इति, 'द्विजातीनामध्यय-
नमिज्या दानम्' इति च । येषां पुनः पूर्वकृतसंस्कारवशा-
द्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः तेषां न शक्यते फ-
लप्राप्तिः प्रतिषेद्धुम्, ज्ञानस्यैकान्तिकफलत्वात् । ' श्रावयेच्चतुरो
वर्णान्' इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्म-
रणात् । वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥
 
१०. कम्पना-
 
,
 
कम्पनात् ॥ ३९ ॥
 
अवसितः प्रासङ्गिकोऽधिकारविचार: ; प्रकृतामेवेदानीं
वाक्यार्थविचारणां प्रवर्तयिष्यामः । ' यदिदं किंच जग-
त्सर्व प्राण एजति निःसृतम् । महद्भयं
धिकरणम्। वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति '
इति — एतद्वाक्यम् ' एज कम्पने' इति धात्वर्थानुगमा-
लक्षितम् । अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते,
महच्च किंचिद्भयकारणं वज्रशब्दितमुद्यतम्, तद्विज्ञानाञ्चामृत-