Proofing

This page has not been fully proofread.

२१२
 
सूत्रभाष्ये
 
[पा. ३.
 
इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः
संस्काराः परामृश्यन्ते- 'तं होपनिन्ये ' ' अधीहि भगव
इति होपससाद ' ' ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा
एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पि-
प्पलादमुपसन्ना:' इति च । ' तान्हानुपनीयैव' इत्यपि प्रद-
शितैवोपनयनप्राप्तिर्भवति । शूद्रस्य च संस्काराभावोऽभिलप्यते
'शूद्रश्चतुर्थो वर्ण एकजाति:' इत्येकजातित्वस्मरणात् । 'न
'शूद्रे पातकं किंचिन्न च संस्कारमर्हति' इत्यादिभिश्च ॥
 
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
 
इतश्च न शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे
निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते-
नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये
न सत्याद्गा:' इति श्रुतिलिङ्गात् ॥
 
"
 
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
 
इतश्च न शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययना-
र्थप्रतिषेधो भवति । वेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः,
तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते । श्रवणप्र-
तिषेधस्तावत्--: अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्र-