2026-05-06 05:45:05 by ambuda-bot
This page has not been fully proofread.
सूं. ३६.]
प्रथमोऽध्यायः ।
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन
लिङ्गात् ॥ ३५ ॥
२११
इतश्च न जातिशूद्रो जानश्रुतिः ; यत्कारणं प्रकरणनि-
रूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण
समभिव्याहाराल्लिङ्गाद्गम्यते । उत्तरत्र हि संवर्गविद्यावाक्य-
शेषे चैत्लरथिरभिप्रतारी क्षत्रियः संकीर्त्यते- 'अथ ह शौनकं
च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्र-
झचारी बिभिक्षे' इति । चैत्ररथित्वं चाभिप्रतारिण: कापे-
ययोगादवगन्तव्यम् । कापेययोगो हि चित्ररथस्यावगतः
एतेन वै चित्ररथं कापेया अयाजयन्' इति । समानान्व-
यानां च प्रायेण समानान्वया याजका भवन्ति । ' तस्माचै-
त्ररथिर्नामैकः क्षत्रपतिरजायत' इति च क्षत्रपतित्वावगमात्क्ष-
त्रियत्वमस्यावगन्तव्यम् । तेन क्षत्रियेणाभिप्रतारिणा सह
समानायां संवर्गविद्यायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं
सूचयति । समानानामेव हि प्रायेण समभिव्याहारा भवन्ति ।
क्षतृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः । अतो
न शूद्रस्याधिकारः ॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥