2026-05-06 05:45:02 by ambuda-bot
This page has not been fully proofread.
२१००
सूत्रभाष्ये
[पा: ३.
धिकारकारणं भवति ; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्य-
स्यापेक्षितत्वात्, शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणे-
न निराकृतत्वात् । यच्चेदम् ' शूद्रो यज्ञेऽनवक्लृप्त:' इति, तत्
न्यायपूर्वकत्वाद्विद्यायामप्यनवक्लृप्तत्वं द्योतयति ; न्यायस्य
साधारणत्वात् । यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं
मन्यसे न तलिङ्गम् ; न्यायाभावात् । न्यायोक्ते हि लिङ्ग-
दर्शनं द्योतकं भवति । न चात्र न्यायोऽस्ति । कामं चायं
शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषय-
त्वात्; न सर्वासु विद्यासु । अर्थवादस्थत्वात्तु न क्वचिद-
प्ययं शूद्रमधिकर्तुमुत्सहते । शक्यते चायं शूद्रशब्दोऽधि-
कृतविषये योजयितुम्; कथमित्युच्यते- 'कम्बर एन-
मेतत्सन्तं सयुग्वानमिव रक्कमात्थ' इत्यस्माद्धंसवाक्यादा-
त्मनोऽनादरं श्रुतवतों जानश्रुतेः पौत्रायणस्य शुक् उत्पेदे ;
तासृषी रैकः शुद्रशब्देनानेन सूचयांबभूव आत्मनः परो-
क्षज्ञताख्यापनायेति गम्यते, जातिशूद्रस्यानधिकारात् । कथं
पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यते - तदा-
द्रवणात् ; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक-
'मभिदुद्राव - इति शूद्रः; अवयवार्थसंभवात्, रूढ्यर्थस्य
चासंभवात् । दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ :