2026-05-06 05:45:04 by ambuda-bot
This page has not been fully proofread.
सू. ३४.]
प्रथमोऽध्यायः ।
२.०९.
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्व-
धिकार उक्त:, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्या-
९. . अपशूद्राधि- · प्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितु-
८
करणम् । मिदमधिकरणमारभ्यते । तत्र शूद्रस्याप्यधि-
कारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः संभवात्,
तस्माच्छूद्रो यज्ञेऽनवक्लृप्त:' इतिवत् शूद्रो विद्यायामनव-
क्लृप्त इति निषेधाश्रवणात् । यच्च कर्मस्वनधिकारकारणं
शूद्रस्यानग्नित्वम्, न तद्विद्यास्वधिकारस्यापवादकम् ; न ह्याह-
वनीयादिरहितेन विद्या वेदितुं न शक्यते । भवति च श्रौतं
लिङ्गं शूद्राधिकारस्योपोद्बलकम् ; संवर्गविद्यायां हि जानश्रुतिं
पौत्रायणं शुश्रूषं शूद्रशब्देन परामृशति – 'अह हारे त्वा शूद्र
तवैव सह गोभिरतु' इति । विदुरप्रभृतयश्च शूद्रयोनिप्र-
भवा अपि विशिष्टविज्ञानसंपन्नाः स्मर्यन्ते । तस्मादधिक्रियते
शूद्रो विद्यास्वित्येवं प्राप्ते-
'ब्रूमः - न शूद्रस्याधिकारः, वेदाध्ययनाभावात् । अधी-
तवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते । न च शूद्रस्य
वेदाध्ययनमस्ति ; उपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य
च वर्णत्रयविषयत्वात् । यत्तु अर्थित्वम्, न तदसति सामर्थ्ये-
ऽधिकारकारणं भवति । सामर्थ्यमपि न लौकिकं केवलम-
S. W. I. 14