Proofing

This page has not been fully proofread.

२०८
 
सूत्रभाष्ये
 
[पा. ३.
 
मिति, स जगद्वैचित्र्यं प्रतिषेधेत्; इदानीमिव च नान्यदा-
पि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्, ततश्च राजसूयादि-
चोदना उपरुन्ध्यात्; इदानीमिव च कालान्तरेऽप्यव्यवस्थि-
तप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि
शास्त्रमनर्थकं कुर्यात् ; तस्माद्धर्मोत्कर्षवशाश्चिरंतना देवादिभिः
प्रत्यक्षं व्यवजहुरिति श्लिष्यते । अपि च स्मरन्ति-—
'स्वाध्यायादिष्टदेवतासंप्रयोगः' इत्यादि ; योगोऽप्यणिमाद्यै-
श्वर्यप्राप्तिफलकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्या-
ख्यातुम्; श्रुतिश्च योगमाहात्म्यं प्रख्यापयति' पृथिव्यप्तेजो-
ऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य
रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् '
इति । ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्य नास्मदी -
येन सामर्थ्येनोपमातुं युक्तम् । तस्मात्समूलमितिहासपुरा-
णम् । लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाध्यवसातुं
युक्ता । तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वा-
द्यवगमः । ततश्चार्थित्वादिसंभवादुपपन्नो देवादीनामपि ब्रह्म-
विद्यायामधिकारः । क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥
 
शुगस्य तद्नादश्रवणात्तदाद्रवणा-
त्सूच्यते हि ॥ ३४ ॥