2026-05-06 05:45:00 by ambuda-bot
This page has not been fully proofread.
सू. ३.३.]
प्रथमोऽध्यायः ।
२०७
योऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनु-
वादेनार्थवादः प्रवर्तते; यत्र प्रमाणान्तरविरुद्ध:, तत्र गुण-
वादेन; यत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावा-
गुणवादः स्यात्, आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानार्थ-
वाद इति - प्रतीतिशरणैर्विद्यमानार्थवाद आश्रयणीयः, न गु-
णानुवादः ;
एतेन मन्त्रो व्याख्यातः । अपि च विधिभिरेवेन्द्रा-
दिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् ;
न हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते ;
न च चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं
शक्यते; श्रावयति च - 'यस्यै देवतायै हविर्गृहीतं
स्यात्तां ध्यायेद्वषट् करिष्यन्' इति न च शब्दमात्र-
मर्थस्वरूपं संभवति, शब्दार्थयोर्भेदात् ; तत्र यादृशं मन्त्रा-
र्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाण-
केन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपि व्याख्यातेन
मार्गेण संभवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि
साधयितुम् ; प्रत्यक्षादिमूलमपि संभवति ; भवति यस्माक-
मप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम् ; तथा च व्यासादयो दे-
वादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते ; यस्तु ब्रूयात् — इदा-
• नींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्य-
;.